बीरबल साहनी
बीरबल साहनी | |
---|---|
Bust of बीरबल साहनी , बिर्ल स्ङ्ग्रहालयः | |
जननम् |
1891 बिह्र, सहरम्पुर नगरम्, पष्चिम पञ्जाब् |
मरणम् |
1949 लख्नो |
नागरीकता | भारतम् |
देशीयता | भारतीयः |
कार्यक्षेत्राणि | पलियोबोटनी |
संस्थाः | लख्नो |
मातृसंस्थाः |
सर्वकार विद्यालय विश्वविद्यालयः, लाहोर् एम्मानुएल् विद्यालयः, केम्ब्रिड्ज् |
संशोधनमार्गदर्शी | प्रोफेसर् सिवरड्, शिक्षण उपदेश्टाः= गोबेल् |
विषयेषु प्रसिद्धः | Bennettitalean plant, Homoxylon – a new type of petrified wood |
पतिः/पत्नी | सावित्रि सुरि |
एषः बीरबल साहनी (Birbal Sahni) विज्ञानस्य अत्यन्तं विरलायाः शाखायाः "अवशिष्टसस्यविज्ञानस्य" (पेलियोबाटनि) (प्राचीनस्य जीवशास्त्रस्य) तज्ञः । अयं १८९१ तमे वर्षे नवेम्बर्-मासस्य १४ दिनाङ्के भारतदेशस्य पञ्जाबप्रान्तस्य "भेरा” (इदानीं सः प्रदेशः पाकिस्तानदेशे अस्ति ।) इति प्रदेशे जन्म प्राप्नोत् । तस्य बीरबल साह्निनः पिता रसायनविज्ञानस्य शिक्षकः आसीत् । तथापि तस्य प्रकृतेः अध्ययने महती आसक्तिः आसीत् । एषः बीरबल साहनी अपि बाल्ये पित्रा क्रियमाणे कार्ये साहाय्यं करोति स्म । पित्रा सह पुरातनानां सस्यानाम् अवशेषसहितानां विभिन्नानां पाषाणानां, सस्यानां, शिलानां च सङ्ग्रहणं कुर्वन् तद्विषये एव आसक्तः अभवत् । तस्मात् कारणात् पितुः इच्छानुसारम् "ऐसिएस्” अकृत्वा भूगर्भविज्ञाने तथा सस्यशास्त्रे च प्रावीण्यं प्राप्नोत् । १९११ तमे वर्षे लाहोर्-विश्वविद्यालयः पदवीं प्राप्य अग्रिमाध्ययनार्थं ब्रिटन्-देशम् अगच्छत् । एषः बीरबल साहनी ब्रिटन्-देशस्य लण्डन्-नगरे स्थितात् 'केम्ब्रिड्ज्’-विश्वविद्यालयतः १९२९ तमे वर्षे "डि.एस्सि” पदवीं प्राप्नोत् । तथा "केम्ब्रिड्ज्”-विश्वविद्यालयतः पदवीं प्राप्तवान् प्रथमः भारतीयः अयं बीरबल साहनी । तदनन्तरं सः बीरबल साहनी प्रसिद्धस्य सस्यविज्ञानिनः ए. सि. स्ट्यूयर्डस्य मार्गदर्शने पुरातनानाम् अवशिष्टानां सस्यानां, "जरि” नामकानां सस्यानां (फर्न्), "शङ्ख" नामकानां सस्यानं (कोनिफर्) च विषये संशोधनम् अनुवर्तितवान् । एषः बीरबल साहनी १९३६ तमे वर्षे प्रतिष्ठितायाः रायल्-सोसिट्याः "फेलो” रूपेण अपि चितः अभवत् ।
अवशिष्टसस्यविज्ञानस्य अध्ययनं (पेलियोबाटनि) न तावत् सुकरम् । तस्मिन् विज्ञाने सस्यविज्ञानं, भूगर्भविज्ञानं च अन्तर्भवति । तस्य अध्ययनं भवनस्य अन्तः उपविश्य कर्तुं न शक्यते । तदर्थं वनेषु, पर्वतेषु वा अटनीयम् । अतिसूक्ष्माणि विवरणानि अपि सङ्ग्रहणीयानि । प्राप्तं सर्वम् अपि लघु लघु विवरणं संयोज्य समग्रं चित्रणं स्रष्टव्यम् । अनन्तरं तस्य चित्रणस्य आधारेण इदानीं भूमौ कुत्रापि अविद्यमानानां जीविनाम् इतिहासः लेखनीयः । एतावन्ति कार्याणि कर्तुं गृध्रस्य सूक्ष्मदृष्टिः, सिंहस्य धैर्यं चापि आवश्यकम् । तादृशं कौशलम् अयं बीरबल साहनी बाल्यादेव प्राप्तवान् आसीत् । सः भारतदेशस्य गभीरेषु अरण्येषु अन्यतमे "गोण्ड्वान"- अरण्ये, बिहारप्रान्तस्य "राजमहल्”- पर्वतेषु च अहोरात्रः अटित्वा परिशील्य अवशिष्टसस्यानां विवरणानि सङ्गृहीतवान् । लक्षाधिकेभ्यः वर्षेभ्यः पूर्वं विद्यमानानां सस्यजातीनां शोधनं कृत्वा इदानीं विद्यमानैः सस्यैः सह तेषां सम्बन्धं च निरूपितवान् । सः बीरबल साहनी अनावृतबीजसस्यानां (जोम्नोस्टेर्) वर्गस्थं किञ्चन सस्यं यदा संशोधितवान् तदा सः विषयः अन्ताराष्ट्रियस्तरे कुतूहलम् अजनयत् । एतत् संशोधनं भूखण्डाः नद्यां यथा नौका प्लवते तथैव सदा चलनशीलाः भवन्ति इत्यस्य सिद्धान्तस्य प्रचोदनम् अकरोत् ।
एषः बीरबल साहनी भूगर्भविज्ञाने अपि आसक्तः आसीत् । भारतदेशस्य पञ्जाबप्रान्ते (इदानीन्तने पाकिस्तानदेशे अस्ति ।) विद्यमानस्य "साल्ट्रेञ्जस्य" वयः ४० तः ६० वर्षाणि । भारतस्य मध्यप्रदेशे विद्यमानस्य "डेक्कन् ट्र्याप्स्” "टर्शियरि” अवधेः । तस्य वयः ६२ दशलक्षं वर्षाणि इत्येतादृशानि विवरणानि अपि अध्ययनद्वारा असूचयत् । एषः बीरबल साहनी १९३६ तमे वर्षे "पुरातत्त्वशास्त्रे” (आर्कियालजि) अपि प्रावीण्यं प्रादर्शयत् । "रोटक्” इति प्रदेशे नाणकानां निर्माणस्य अक्षं संशोधितवान् । तेषां सम्बद्धानि विवरणानि अपि सहनया परिशील्य साक्ष्याधारान् अपि प्रायच्छत् । तदर्थं तेन बीरबल साह्निना भारतस्य "न्युमिस्माटिक् सोसैट्याः” "नेल्सन् रैट्” पदवी अपि प्राप्ता । एषः बीरबल साहनी सस्यविज्ञानस्य बोधनस्य स्तरं वर्धितवान् । अनन्तरं भूगर्भविज्ञानस्य विभागम् अपि आरब्धवान् । सस्यविज्ञानस्य विभागस्य, भूगर्भविज्ञानस्य विभागस्य च मेलनेन "पुरातत्त्वसस्यशास्त्रम्” इति नूतनस्य विभागस्य उदयः अभवत् । सः विभागः विश्वे एव प्रथमः अध्ययनविभागः इति ख्यातिम् अपि प्राप्नोत् । तस्य विभागस्य भवनस्य उद्घाटनं तदानीन्तनः भारतस्य प्रधानमन्त्री जवाहरलालनेहरुः अकरोत् । तदनन्तरं सप्ताहाभ्यन्तरे एव अयं बीरबल साहनी इहलोकम् अत्यजत् । तेन मध्ये एव परित्यक्तानि सर्वाणि अपि कार्याणि तस्य पत्नी समर्थतया अनुवर्तयत् । इदानीं सा संस्था "बीरबल साहनी–इन्स्टिट्यूट् आफ् पेलियोबाटनि” इत्येव उच्यते ।